|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.37. अध्यायः 037
अथ पुत्रदर्शनपर्व ॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
जनमेजयेन परिक्षित्प्रदर्शने प्रार्थिते व्यासेन परिक्षितः शमीकमहर्षः शृङ्गीणश्च प्रदर्शनम्॥ 1 ॥ जनमेजयेनावभृथस्नानानन्तरमास्तिकपूजनपूर्वकं वैशम्पायनंप्रति कथावशेषकथनप्रार्थना॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान्।
ऋषेः प्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह॥ 16-37-1(98152)
स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा।
अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च। 16-37-2(98153)
विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात्।
धृतराष्ट्रः समासाद्य व्यासं चैव तपस्विनम्॥ 16-37-3(98154)
जनमेजय उवाच। 16-37-4x(8062)
ममापि वरदो व्यासो दर्शयेत्पितरं यदि।
तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव तत्॥ 16-37-4(98155)
प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः।
प्रसादादृषिमुख्यस्य मम कामः समृद्ध्यताम्॥ 16-37-5(98156)
सौतिरुवाच। 16-37-6x(8063)
इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान्।
प्रसादमकरोद्धीमानानयच्च परिक्षितम्॥ 16-37-6(98157)
ततस्तद्रूपवयसमागतं नृपतिं दिवः।
श्रीमन्तं पितरं राजा ददर्श स परीक्षितम्॥ 16-37-7(98158)
शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम्।
अमात्या ये च निहता राज्ञस्तांश्च ददर्श ह॥ 16-37-8(98159)
ततः सोवभृथे राजा मुदितो जनमेजयः।
पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः॥ 16-37-9(98160)
`परीक्षिदपि तत्रैव बभूव स तिरोहितः।'
स्नात्वा स नृपतिर्विप्रमास्तीकमिदमब्रवीत्।
यायावरकुलोत्पन्नं जरत्कारुसुतं तदा॥ 16-37-10(98161)
आस्तीक विविधाश्चर्यो यज्ञेऽयमिति मे मतिः।
यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः॥ 16-37-11(98162)
आस्तीक उवाच। 16-37-12x(8064)
ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः।
यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ॥ 16-37-12(98163)
श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन।
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः॥ 16-37-13(98164)
कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव।
ऋषयः पूजिताः सर्वे गतिर्दृष्टा महात्मनः॥ 16-37-14(98165)
प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम्।
विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात्॥ 16-37-15(98166)
ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये।
यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रिया॥ 16-37-16(98167)
सौतिरुवाच। 16-37-17x(8065)
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः।
पूजयामास तमृषिमनुमान्य पुनःपुनः॥ 16-37-17(98168)
पप्रच्छ तमृषि चापि वैशम्पायनमच्युतम्।
कथावशेषं धर्मज्ञो वनवासस्य सत्तम॥ ॥ 16-37-18(98169)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि सप्तत्रिंशोऽध्यायः॥ 37 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-37-2 स धृतराष्ट्रो राजा विदुरश्च सिद्धिं ययौ इति द्वयोः सम्बन्धः। तत्रापि विदुरस्तपोबलात्। धृतराष्ट्रो व्यासं समासाद्येति सम्बन्धः॥ 7-37-15 पापविनाशं इतिहासमिति शेषः॥ 7-37-16 पक्षधराः पक्षस्थापकाः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|